harada (from Śāradāmāhātmya and others)

नमस्ते शारदे देवि काश्मीरपुरवासिनि।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे॥
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः।
वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च॥
अनादिनिधना देवी यथा भूलोकमागमत्।
शारदा नाम सा शक्तिस्त्रिधा रूपम् अधारयत्॥
देवीं चिदानन्दमयीमजस्रं
विश्वात्मिकां विश्वपरां जयन्तीम्।
तमोपहर्त्रीं मनसा परेशीं
तां शारदाख्यां शरणं प्रपद्ये॥
पापैः शवलितो यस्मा-
न्मोचितोऽस्मि स्वभावतः।
तस्मात् त्वां शारदां नाम
प्रवदन्तु मनीषिभिः॥
चिद्विमर्शमहाशक्तिं परमानन्ददायिनीम्।
शरणं देवदेवेशीं त्वाम् एव गतवान् अहम्॥
रजस्तमोव्यक्तरूपाम् ओमित्येकाक्षरात्मिकाम्।
शरणं यामि तां देवीं शारदां शवलां पराम्॥
अघोरां घोररूपां तां घोरघोरतरां शुभाम्।
शर्वाणीं चाथ रुद्राणीं मृडानीं तां नमाम्यहम्॥
शरत्काले यतो देवी पूजिता सर्वजन्तुभिः॥
ततः प्रोक्ता पुराविद्भिः शारदा नाम नामतः।
गौतमेनार्चितां दुर्गां शारदां वरदां भजे।
चिन्त्यमचिन्त्यां चेत्यां च चिद्विमर्शविधायिनीम्॥
चिद्रूपां चारुनयनां शारदां शरणं श्रये।
घोरकाननसंलीनं त्रिविधां त्रिस्वरूपिणीम्॥
श्रीशैले त्रिपुटां देवीं शारदां तां भजामहे।
कामक्रोधभवोन्मादग्रस्तमोक्षविधायिनीम्॥
त्रिपुरां त्रिविधावासां शारदां नारदां भजे।
भक्ताभयकरीं देवीं वरचापशराङ्किताम्॥
त्रिशूलखट्वाङ्गधरां त्रिनेत्रां चारुहासिनीम्।
षड्भुजां षड्गुणां रम्यां गुणातीतां गुणात्मिकाम्॥
प्रकृतिं विकृतिं दिव्यां शारदां वरदां भजे।
अतीतानागतां दिव्यां महामायास्वरूपिणीम्॥
ब्रह्मविष्णुशिवातीतपर्यङ्कासनसंस्थिताम्।
महामोहपरिग्रस्तां महामोहस्वरूपिणीम्।
महान्धितजनोद्धारां शारदां वरदां भजे॥ KR IRS 6923

-- 
You received this message because you are subscribed to the Google Groups 
"Thatha_Patty" group.
To unsubscribe from this group and stop receiving emails from it, send an email 
to [email protected].
To view this discussion on the web visit 
https://groups.google.com/d/msgid/thatha_patty/CAL5XZorxtSMaqqJq8qZ8676NxkVHCD5F_x2AEp3%2B9VzG1BVAmA%40mail.gmail.com.

Reply via email to